| Paper Title |
विशिष्टाद्वैतवेदान्ते सृष्टितत्त्वविमर्शः |
| Author(s) | Puspen Pakhira. |
| Country | India |
| Abstract |
शोधसंक्षिप्तसारः (Abstract) “विशिष्टाद्वैतवेदान्ते सृष्टितत्त्वविमर्शः” इत्यस्मिन् शोधपत्रे विशिष्टाद्वैतवेदान्तानुसारं सृष्टितत्त्वं सम्यगनुशीलितम्। वेदान्तदर्शनेषु सृष्टिसन्दर्भः अत्यन्तमहत्वपूर्णः दार्शनिकविषयः वर्तते। विशेषतः श्रीरामानुजाचार्यप्रतिपादिते विशिष्टाद्वैतवेदान्ते सृष्टिः न मायिकविवर्तः, न च ब्रह्मणः स्वरूपपरिणामः, अपितु परमात्मनः शरीरभूताया अचित्प्रकृतेः परिणामरूपा, परमेश्वरसङ्कल्पाधीना च इति प्रतिपाद्यते। विशिष्टाद्वैतवेदान्तस्य प्रवर्तकः श्रीरामानुजाचार्यः जगतः, जीवस्य, ईश्वरस्य च परस्परसम्बन्धं विशिष्टरूपेण निरूपयति। परब्रह्म श्रीमन्नारायणः चिदचिद्विशिष्टस्वरूपः, जगतः अभिन्ननिमित्तोपादानकारणमिति विशिष्टाद्वैतस्य मूलप्रतिपाद्यम्। तथा च चित्-अचित्तत्त्वयोः ब्रह्मणः शरीर-शरीरिभावसम्बन्धः प्रतिपादितः। सृष्टिः ब्रह्मणः वास्तविकपरिणामरूपा, न तु मायिकाभासमात्रम् इति अत्र विशेषतया प्रतिपाद्यते। विशिष्टाद्वैतवेदान्ते सृष्टेः स्वरूपं, कारणतत्त्वं, जगतः सत्यत्वं, तत्त्वत्रयसम्बन्धं प्रतिपादितम्। प्रस्तुतशोधे श्रीभाष्यम्, भगवद्गीता, उपनिषद्भाष्याणि तथा अन्यप्रामाणिकग्रन्थाः प्रमुखस्रोतरूपेण स्वीकृताः भवन्ति। प्रलयकाले चित्-अचित्तत्त्वे ब्रह्मणि सूक्ष्मरूपेण अवस्थिते भवतः। ईश्वरस्य संकल्पेन प्रकृतेः विकासः भवति, ततः महत्, अहङ्कारः, तन्मात्राणि, पञ्चमहाभूतानि च प्रादुर्भवन्ति। एतेभ्यः समस्तं चराचरजगदुत्पद्यते। जीवाः स्वकर्मानुसारं विविधशरीराणि प्राप्नुवन्ति, ईश्वरश्च अन्तर्यामीरूपेण सर्वेषां नियन्ता भवति। एवं जगत् सत्यं, ब्रह्मणः शरीरं, सृष्टेश्च प्रयोजनं जीवानां कर्मफलप्रदानं मोक्षप्राप्त्युपकारश्च इति। |
| Keywords | सृष्टितत्त्वम्, ईश्वरः, चित्, अचित्, परब्रह्म, अभिन्ननिमित्तोपादानकारणम्। |
| Subject Area | Sanskrit |
| Issue | Volume 2, Issue 4 (July - August 2026) |
| Published | 2026/08/17 |
| How to Cite | Pakhira, P. (2026). विशिष्टाद्वैतवेदान्ते सृष्टितत्त्वविमर्शः. Shodh Prabha: A Multidisciplinary Journal, 2(4), 91–98. |
View / Download PDF File