Skip to main content

Shodh Prabha: A Multidisciplinary Journal

Shodh Prabha: A Multidisciplinary Journal

A National, Peer-reviewed (refereed), Bi-Monthly Journal

  ISSN: 3108-2726 (Online)
ISSN: 3108-2890 (Print)

Call For Papers - Volume - 2 Issue - 4 (July - August 2026)
Paper Title

विशिष्टाद्वैतवेदान्ते सृष्टितत्त्वविमर्शः

Author(s) Puspen Pakhira.
Country India
Abstract

शोधसंक्षिप्तसारः (Abstract) “विशिष्टाद्वैतवेदान्ते सृष्टितत्त्वविमर्शः” इत्यस्मिन् शोधपत्रे विशिष्टाद्वैतवेदान्तानुसारं सृष्टितत्त्वं सम्यगनुशीलितम्। वेदान्तदर्शनेषु सृष्टिसन्दर्भः अत्यन्तमहत्वपूर्णः दार्शनिकविषयः वर्तते। विशेषतः श्रीरामानुजाचार्यप्रतिपादिते विशिष्टाद्वैतवेदान्ते सृष्टिः न मायिकविवर्तः, न च ब्रह्मणः स्वरूपपरिणामः, अपितु परमात्मनः शरीरभूताया अचित्प्रकृतेः परिणामरूपा, परमेश्वरसङ्कल्पाधीना च इति प्रतिपाद्यते। विशिष्टाद्वैतवेदान्तस्य प्रवर्तकः श्रीरामानुजाचार्यः जगतः, जीवस्य, ईश्वरस्य च परस्परसम्बन्धं विशिष्टरूपेण निरूपयति। परब्रह्म श्रीमन्नारायणः चिदचिद्विशिष्टस्वरूपः, जगतः अभिन्ननिमित्तोपादानकारणमिति विशिष्टाद्वैतस्य मूलप्रतिपाद्यम्। तथा च चित्-अचित्तत्त्वयोः ब्रह्मणः शरीर-शरीरिभावसम्बन्धः प्रतिपादितः। सृष्टिः ब्रह्मणः वास्तविकपरिणामरूपा, न तु मायिकाभासमात्रम् इति अत्र विशेषतया प्रतिपाद्यते। विशिष्टाद्वैतवेदान्ते सृष्टेः स्वरूपं, कारणतत्त्वं, जगतः सत्यत्वं, तत्त्वत्रयसम्बन्धं प्रतिपादितम्। प्रस्तुतशोधे श्रीभाष्यम्, भगवद्गीता, उपनिषद्भाष्याणि तथा अन्यप्रामाणिकग्रन्थाः प्रमुखस्रोतरूपेण स्वीकृताः भवन्ति। प्रलयकाले चित्-अचित्तत्त्वे ब्रह्मणि सूक्ष्मरूपेण अवस्थिते भवतः। ईश्वरस्य संकल्पेन प्रकृतेः विकासः भवति, ततः महत्, अहङ्कारः, तन्मात्राणि, पञ्चमहाभूतानि च प्रादुर्भवन्ति। एतेभ्यः समस्तं चराचरजगदुत्पद्यते। जीवाः स्वकर्मानुसारं विविधशरीराणि प्राप्नुवन्ति, ईश्वरश्च अन्तर्यामीरूपेण सर्वेषां नियन्ता भवति। एवं जगत् सत्यं, ब्रह्मणः शरीरं, सृष्टेश्च प्रयोजनं जीवानां कर्मफलप्रदानं मोक्षप्राप्त्युपकारश्च इति।

Keywords सृष्टितत्त्वम्, ईश्वरः, चित्, अचित्, परब्रह्म, अभिन्ननिमित्तोपादानकारणम्।
Subject Area Sanskrit
Issue Volume 2, Issue 4 (July - August 2026)
Published 2026/08/17
How to Cite Pakhira, P. (2026). विशिष्टाद्वैतवेदान्ते सृष्टितत्त्वविमर्शः. Shodh Prabha: A Multidisciplinary Journal, 2(4), 91–98.

PDF View / Download PDF File