| Paper Title |
श्रीबालकृष्णभट्टानुसारम् अलङ्कारसारे प्रतिपादिताः शब्दालङ्काराः : एकं विश्लेषणात्मकम् अध्ययनम् |
| Author(s) | Debarshi Adhikari. |
| Country | India |
| Abstract |
अलम् इत्यव्ययपूर्वक - कृ धातोः ‘भावे’ इति पाणिनिसूत्रेण घञि-प्रत्यये कृते सति अलङ्कार इति शब्दः निष्पद्यते । व्युत्पत्तिदृष्ट्या अलङ्कारशब्दः त्रिविधः – भावव्युत्पत्तिनिष्पन्नः करणव्युत्पत्तिनिष्पन्नः कर्त्रर्थप्रधानश्च । काव्यशोभाकराः धर्माः अलङ्काराः इति प्रतिपादयन् आचार्यः दण्डी करणव्युत्पत्तिनिष्पन्नम् अलङ्कारपदम् अङ्गीकरोति । सौन्दर्यमलङ्कारः इति कथयता वामनेन भावव्युत्पत्तिनिष्पन्नम् अलङ्कारपदं स्वीक्रियते । अपि च उपकुर्वन्ति तं सन्तं येsङ्गद्वारेण जातुचित् इति प्रतिपादयन् आचार्यः मम्मटः प्रागुक्तं तृतीयव्युत्पत्तिनिष्पन्नम् अलङ्कारपदं समर्थयति । अस्याः त्रिविधायाः व्युत्पत्तेरनुसारं अलङ्कारः एवंविधं करणम् अथवा असाधारणं साधनम् अस्ति येन सौन्दर्यस्य आधानं भवति । तदित्थं यत्तत्त्वं यो वाSर्थः शरीरं भूषयति तस्य तत्त्वस्य अर्थस्य वा नाम भवति अलङ्कार इति । संस्कृतसाहित्ये त्रिघरोपनामकस्य बालकृष्णभट्टस्य तथा च तस्य अलङ्कारसारग्रन्थस्य महत्त्वपूर्णं स्थानं वर्तते । अलङ्कारसारग्रन्थे अलङ्कारस्य किमपि लक्षणं न प्राप्यते । परन्तु सर्वेषाम् आलङ्कारिकाणां मतं प्रदर्श्य अलङ्काराणां विवेचनं बालकृष्णभट्टेन प्रस्तुतम् अस्ति । |
| Keywords | अलङ्कारसारः, अलङ्कारशास्त्रम्, शब्दालङ्काराः, काव्यात्मा, अर्वाचीनसंस्कृतपरम्परा |
| Subject Area | Sanskrit |
| Issue | Volume 2, Issue 3 (May - June 2026) |
| Published | 2026/06/30 |
| How to Cite | Adhikari, D. (2026). श्रीबालकृष्णभट्टानुसारम् अलङ्कारसारे प्रतिपादिताः शब्दालङ्काराः : एकं विश्लेषणात्मकम् अध्ययनम्. Shodh Prabha: A Multidisciplinary Journal, 2(3), 98–110. |
View / Download PDF File